SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवधरचम्पुकाव्ये इति प्रतिपादितं धर्म शिरसा मनसा च प्रतिगृहानमन्तर्गतप्रतापकोरकपुञ्जमिव मणिभूषणगणमात्मना वितीर्णमत्यादरमेदुरेण करेण पचेलिमभाग्यवृन्दमिवादाय संमदपयःपूरैः क्षालयन्तमिवातिसंतोषकोरकितान्तरङ्गं तं धार्मिक मुत्सृज्य तस्य स्मरन्नेव कुरुकुञ्जर - स्तस्मादनान्निर्जगाम । गभस्तिमाली गगनस्य मध्यं द्रुमालवालं जलमध्यमेणः । . जिह्वा च शोषं सममाप नृणां शरीरमुद्यवनधर्मतोयम् ॥२०॥ तदानीं, पचेलिमहेलिसंतापार्ततया वृष्टचन्दनरसपाण्डुगण्डमण्डलेषु वनशुण्डालेषु चलाचलनिजकर्णतालपवनसंवीज्यमानाननेषु हस्तोज्झितशीकरनिकरसंसिक्तहृदयेषु मन्दमन्दमागत्य सरोवरप्रवेशनपरेषु, कर्णिकारमुकुलानि निर्भिद्यान्तीयमानेषु षट्चरणेषु, संतप्तनलं विहाय शीतलनलिनीदलं सेवमानेषु कारण्डवेषु, पञ्जरबद्धक्रीडाशुकेषु जलं याचमानेषु, विजगदेकातपत्रायितकीर्तिमण्डलेन सकलजनतासंतापनाशनोऽपि कुरुवंशपावनः प्रान्तो विश्रान्तिकते नमेरुतरुमूलमाससाद । निषण्णस्तत्र मधुरं रवं शृण्वन्कुरूतमः । संदिग्धे सिन्धुगम्भीरः कल्याणाद्रिरिव स्थिरः ॥ २१ ॥ दङ्कारः किं मारवाणासनस्य झङ्कारोऽयं मत्तमाध्वीलिहां किम् । हंसानां कि मञ्जुलः कण्ठनादः किंवा लीलाकोकिलालाप एषः ॥२२॥ इति संदेहं पराङ्गनानूपुररवविनिश्चयेन निवर्तयन्परपरिग्रहविरक्तमानसः कुरुकुलोत्तंसः पराङ्मुखो बभूव । संचरन्ती वने तत्र भर्ता काचन खेचरी । प्रतार्य तं मिषेणाशु पुरस्तादस्य संन्यधात् ॥ २३ !! यस्या मुखं पर्वविधु विनित्य भ्रूचापदम्भान्जयकेतुनहम् । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy