________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो लम्बः ।
तच्च रत्नत्रये पूर्णे परमं प्राप्यमात्मनः । तच्च सदृष्टिसंज्ञानचारित्राणि प्रकीर्तितम् ॥ ८ ॥ आप्तागमपदार्थानां श्रद्धानं दर्शनं विदुः । तन्मूले ज्ञानचारित्रे भव्यलोकैकभूषणे ॥ ९ ॥ उत्तमाङ्गमिवाङ्गेषु नयनं करणेष्विव । मुक्त्यङ्गेषु प्रधानाङ्गं सम्यग्दर्शनमिष्यते ॥ १० ॥ आत्मा हि ज्ञानदृक्सौख्यलक्षणो विमलः परः । सर्वाशुचिनिदानेभ्यो देहादिभ्य इतीरितः ॥ ११ ॥ इत्यादि स्वार्थविज्ञानं सम्यक्ज्ञानमसंशयम् । सम्यक ज्ञानवता कार्यः परित्यागः परस्यवै ॥ १२॥ परित्यागवतो जीवा द्विविधाः परिकीर्तिताः । अनगाराश्च सागाराः पूर्वे सावद्यवर्जिताः ॥ १३ ॥ यतीनां सुधर्म न शक्नोषि वोढुं महोक्षेण वाह्यं यथा तत्किशोरः । अतस्त्वं गृहाण गृहस्थस्य धर्मं यतो मुक्तिलक्ष्मीरदूरे भवित्री ॥ १४ ॥ पञ्चाणुव्रत संपन्ना गुणशिक्षाव्रतोद्यताः । सम्यग्दर्शनविज्ञानाः सावद्या गृहमेधिनः ॥ १९ ॥ हिंसानृतस्तेयवधूव्यवायपरिग्रहेभ्यो विरतिः कथंचित् । मद्यस्य मांसस्य च माक्षिकस्य त्यागस्तथा मूलगुणा इमेऽष्टौ ॥ १६ दिग्देशानर्थदण्डेभ्यो विरतिस्तु गुणव्रतम् । भोगोपभोगसंख्यानं केचिदाहुर्गुणव्रतम् ॥ १ सामायिकः प्रोषधकोपवासस्तथातिथीनामपि संग्रहश्र । सल्लेखना चेति चतुःप्रकारं शिक्षाव्रतं शिक्षितमागमज्ञैः ॥ १८ ॥ इत्युक्तव्रत संपन्नः कचिदेशे क्वचित्क्षणे | महाव्रती भवेत्तस्माद्वाह्यं धर्ममगारिणाम् ॥ १९ ॥
For Private And Personal Use Only
|| 6