SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ जीवंधाचम्पुकाव्ये विचित्य, तदीयमार्गमलभमानो न्यवर्तिष्ट । स्वामी च काननतले गगने शशीव सञ्चारकेलिचतुरो मणिभूषणानि । कस्मै चिदर्पयितुमैहत दानशीण्डो धर्माध्वनीनमनसे वनसेवकाय ॥ २ ।। करधृतऋजुतोत्रः कम्बलच्छन्नदेहः कटितटगतदात्रः स्कन्धसंबहसीरः । वनभुवि पथि कश्चिन्नागमत्तस्य पार्श्व नियतिनियतरूपा प्राणिनां हि. प्रवृत्तिः ॥ ३ ॥ ततः कपासंक्रान्तस्त्रान्तः कुरूनिशाकान्तः, पार्श्वगतं नीलकम्बलावगुण्ठितकलेबरतयान्तरमेयत्वेन बहिरपि प्रसरताज्ञानपटलेने वावृतम्, मलीमसोप्णीषपरिष्कृतोतमाङ्गतया कुरुवीरदर्शननिर्गमिप्यत्पापमिव प्रतीयमानम्, कान्त्या जात्या च जयन्यवर्णम्, तमेनमालोक्य, 'अपि कुशलम्' इति पप्रच्छ । सौलभ्यं हि महत्ताया भूषणाय प्रकल्पते । प्रभुत्वस्येव गाम्भीर्यमौदार्यस्येव सौम्यता ॥ ४ ॥ महत्त्वमात्रं कनकाचलेऽपि लोष्टेऽपि सौलभ्यमिह प्रतीतम् । एतद्वयं कुत्रचिदप्रतीतं कुरुप्रवीरे न्यवसत्प्रकाशम् ॥ ५ ॥ वृषलोऽपि विनीतः सन्नुवाच कुरुकुञ्जरम् ।। कुशलं साम्प्रतं युप्मदर्शनेन विशेषतः ॥ ६ ॥ तदिदमार्कण्याव्याजबन्धु वंधरः, जीवादितत्त्रयाथात्म्यविवेचनचतुरः तत्तादृशागण्यपुण्यकलभ्यां मोक्षपदवीं विवरीतुमारभत । कुशलं न हि कर्मषट् नातं विविधाशाव्रततिप्ररोहकन्दम् । भगवर्गजमात्मसाध्यमाहुः कुशलं सौख्यमनन्तमात्मरूपम् ।। ७ ।। For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy