________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये युप्मत्पादपयोजधूलिनिचयैरत्रालयो मामकः
शुद्धः कार्य इति प्रमोदकलिका चित्ते जरीजृम्भते । सेयं संप्रति धीमता विकसिता कार्या न चेदेष वै
द्रागाकारखिलीभवत्तदभिधावाच्यार्थमाटीकते ॥ ४३ ॥ सकलभवनवृन्दं सत्पदाम्भोजधूली
परिचयपरिहीनं नैजनानोऽन्यथार्थम् । भजत इति ह लोके सुप्रतीतं सुधीनां
निखिलगुणपयोधे महचोऽङ्गीकुरुष्व ॥ ४४ ॥ तदनन्तरमनुकम्पितचेताः कुरुकुलशशाङ्कस्तद्वचनं बहुमन्यमानः, नपनरथजवनिन्दनेन स्यन्दनेन गोपुरद्वारं प्रविश्य, प्रासादपालिकावातायनप्रसृतपुरन्ध्रिकापाङ्गतरङ्गितनीलोत्पलश्यामलतोरणदामावलीषु प्रतोलीषु रक्तनयननालीको नालीकसायकस्तालीफलस्तनीनां व्यालीनिभवेणीनां रमणीमणीनामसिभ्यः पुष्कलसमदाश्रुलहरीम् , कटितटेभ्यो नीवीबन्धपदवीम् , हृदयेभ्यो धैर्यपरिपाटीम्, युगपदलितामादधानो, मन्दमन्दं तन्मन्दिरमविन्दत ।
तत्रालये कनकपीठमलंकरिष्णु
जिष्णुप्रतीपविभवः कुरुवंशकेतुः । संप्रार्थितो बहुतरं वणिनां वरेण
__ कन्याकराम्बुरुहपीडनमन्वमस्त ॥ ४५ ॥ हुताशने साक्षिणि भद्रलग्ने सुभद्रदत्तां कुरुसिंह एषः । क्षेमाश्रियं कोमलगालवल्ली जग्राह पाणौ जगदेकवीरः ॥४६॥ पाणिपनं गृहीत्वास्याः स्विन्नाङ्गलिदलोज्ज्वलम् ।
मृदुलं सुकुमाराङ्गयाः संदिग्धे कुरुकुञ्जरः ॥ ४७ ।। तथाहि---
For Private And Personal Use Only