SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठो लम्बः । ७१ सोऽयं न चन्द्रो न च पञ्चवाणो न वासवः किंतु वसन्त एव । कुतोऽन्यथा चम्पकपादपस्य प्रसनभारस्ततगन्धपुरः ।। ३७ ॥ तस्मिन्स्तुतिरवमुखरे पुरुषकुञ्जरे वनस्थली भास्वतीव प्राची दिशमधिगच्छति जिनभवनं कमलवनं च क्षणादुद्वाटितकवाटमजायतेति । श्रुत्वा तदीयामतोर्मिलां गां तस्मै ददावुच्छ्रितपारितोषिकम् । मनोरथस्फूर्तिलताप्ररोहोपदानमौल्यं किल तद्वणिक्पतिः ॥ ३८ ॥ तदनु निजसहायतासहितो वणिजां पतिस्तुङ्गतमशताङ्गमा रूदः, पुरतोरणमतीत्य, पुरतो विराजमानं श्रीविमानमासाद्य, तत्र वन्दारुजनसन्दोहमन्दारस्य शान्तिनाथस्य पादारविन्दसेवा हेवाकभावकलितान्तरङ्गम्, अगण्यपुण्यपुञ्ज इव विस्तीर्णस्फटि कोपलविष्टरे तस्थिवांसं जीवंधरमद्राक्षीत् | पश्यता वैश्यनाथेन परमोत्कृष्टलक्षणम् ।। निर्निमीलननेत्रेण निरणाय्यस्य वैभवम् ॥ ३९ ॥ कान्त्या परीतं कुरुवंशकेतुमुवाच मोदन विशामधीशः । मप्रश्रयं सत्कृतशान्तिनाथमुपागतः स्वागतमारचय्य ॥४०॥ फलं दृष्टयोः प्राप्तं परिणतमयं मे मुदिवस स्तदस्मद्वंश्यानां स्तसुरुतवल्ली च फलिता । मदीयेष्टार्थोऽपि स्फुटतरमदूरे विजयते यतः श्रीमान्प्राप्तो नयनपथपान्थत्वमधुना || ४१ ॥ पद्माप्ततां कुवलयोल्लसनं च तन्व मद्य प्रकाशति पुरस्त्वाय राजहंसे । मर्यो भयाकलितवृत्तिरभूच्छशाको दीपाकरो धृतकलङ्कभरः क्षयिष्णुः ॥ ४२ ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy