SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्य यक्षाध्यक्ष ज्ञापयामास । मनीषितं तस्य कुरुत्तमस्य ज्ञात्वा मनीषी स हि यक्षराजः । मार्गस्य भङ्गी स्फुटतोऽभिधाय संप्रापयामास तदद्रिसीमाम् ॥१७ तदनु कुरुवंशकेसरी केसरीव तत्र तत्र निर्भय एव विहरन, कचिदतिविततानोकहकुलविलसितमसूर्यपश्यं तरक्षुमृगाधिष्ठानम्, क्व. चन तरुषण्डे कादम्बिनीभ्रान्त्या दूरोन्नमितकेकागर्भकण्ठं प्रबल. पुरोवातसंताडितशिखण्डं नीलकण्ठम्, कुत्रचिन्महागुल्मान्तरकुडुम्बि शबरकदम्बकम्, कुत्र च नीपपादपस्कन्धनिषण्णशुण्डादण्डं करिणीसहायं शुण्डालमण्डलम्, कुत्रचित्स्तनधयशिशुसंरुहां हरिणी भुनप्रीवमवलोकयन्तं धावमानहरिणम्, कुलचन दशनान्तरस्थिततृणकबलच्छेदशब्दं नियम्य व्याजिह्माङ्गैः कुरङ्गैः श्रूयमाणगानकलाप्र. वीणं किरातस्त्रैणम्, कचन गर्ननतर्नितस्तम्बेरमनिचयं मृगेन्द्रचयम्, कुत्रचिद्धराकारमजगरनिकरं पश्यन्, क्रमेणातिलवितविपिनपथः, क्वचिदरण्ये समुद्गतधूमपरीता_कषभूमिरुहतया सजलजलधरश्यामलं तरुनिकरमिव कुर्वन्तं प्लोषचटचटात्कारेणाट्टहासमिवातन्वानमतिवेगसमाक्रान्तकाननं दवदहनं ददर्श । असूर्यपश्येषु प्रचुरतरुपण्डान्तरतल. प्रदेशेष्वत्यन्तं यदुषितमभृदन्धतमसा । तदनित्रासेनोद्यतमिव तदा धूमपटलं तमालस्तोमाभं गगनतलमालिङ्गय ववृधे ।। १८ ।। दवानलोद्गता धूम्या महती गगनश्रिया । धृतनीलपटीवासौ वभौ व्याप्तदिगन्तरा ॥ १९ ॥ तदानी दवहुताशनपरीतं विपिनम्, अनलवृद्धिलिङ्गः विस्फुलिङ्गैरुडुनिकरमिव, देदीप्यमानकीलाकलापैः संध्यारागरञ्जितमिव, धूम For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy