SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थो लम्यः । मुखसुधाकरकौमुदीलिप्ततयेव परिपाण्डरतनुवछी, भावनाप्रकर्षवशेन दिशि दिशि परिस्फुरन्तं जीवंधरमालोक्य प्रत्युत्भानाय कृतप्रयत्नापि मृणालकोमलैरङ्गैरपारयन्ती, प्रेषितशुकागमनविलम्बासहतया त्रस्तैकहायनकुरङ्गीवापाङ्गतरङ्गान्दिशि दिशि किरन्ती गुणमाला, समागतं जात्या कृत्येन च पत्रिण शुकमुद्रीक्ष्य, एोहि न सहे विलम्बमिति समालपन्ती, संनिहितं तं तत्समयजातप्रमोदोच्छूनाङ्गतया स्फुटितकझुकेन भुनयुगलेनादाय च पत्रं निरन्तरनिपतितैरपाङ्गैः सर्वत्र मषिलिप्त इव विचित्रे पत्रे रमणीयाक्षरमणीनपश्यन्ती, प्रीतिलतापुष्पायमाणमन्दहासधवलीस्ते तस्मिन्विलिखितं पद्यं वाचयन्ती वाचामगोचरमानन्दमभजत । तदिदं वृत्तमवेत्य कन्यकायाः पितराविङ्गितचेष्टितादिभिश्च । मुमुदाते स्म वरो हि योग्यभाग्यप्रथितो दुर्लभ एव भोभवीति ॥ ३६ ।। ___ तदनु गन्धोत्कटान्तिकं नीताभ्यां काभ्यांचिदामुप्यायणाभ्यामिमं वृत्तान्तं श्रवणपुटेनाधायाश्चर्यवृत्तिरयं मनस्यामोदमातन्वत्रसनयानुमतिवचनमकरन्दधारामुद्रिति स्म । शुभंयुगुणसंपन्ने मुहूर्ते गुणमालिकाम् । पुत्री कुबेरमित्रस्य परिणिन्येऽथ जीवकः ॥३७॥ तदा परिणयोचितभूपावेषोज्ज्वलः साक्षात्कन्दप इव संतर्पितसकलमनुजनयनः कुरुवंशवीरो जीवंधरः समदविस्तारितलोचनाभ्यां नयमालानन्दिनीमपि विनयमालानन्दिनी गुणमालां विलोकयामास । कुसुमातिशायि सुकुमारमङ्गकं दधती नभःस्थलनिकाशमध्यमम् । कुसुमेषुकार्मुकलतेव भाति या त्रिवली तदङ्गुलिसुसन्धिरेखिका ॥३८॥ यस्याः सुधासमरसाधरपल्लवाने मन्दस्मितैः कुसुमितैः कुरुवंशकतोः । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy