________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये ग्दीर्घिकापरिसरे क्षणमुपवनतटमञ्जुलनिकुञ्ज क्षणमास्तृतकुसुमतल्पे क्षणं मृदुलप्रवालशय्यातले क्षणं सुकुमारहंसतृलशयने क्षणं नवकदलीकानने कालं क्षिपन्ती, क्रमेण पत्रिका विलिख्य, कंचन क्रीडाशुकं जीवंधराय प्राहषीत् ।
जीवंधरोऽपि बहुधा विरहाग्निलीढ
मङ्ग दधन्निजगृहोपवने निषण्णः । चित्र विलिख्य कमनीयतमं तदङ्गं
निःश्वस्य विश्वमहितः सुचिरं लुलोके ॥ ३२ ॥ तावदागत्य चाटुवचनचतुरेण कीरेण प्रसंगात्समर्पितं पत्रं फलितमनारथसुरतरुपत्रमिवादाय तत्क्षणमेव द्रष्टुकामोऽप्यानन्दबाप्पनिरुद्धनयनमार्गतया विनितो मोदपरीवाहं कथं कथमपि नियम्य जीवंधरो वाचयति स्म ।
मदीयहृदयाभिधं मदनकाण्डकाण्डोद्यतं __ नवं कुसुमकन्दुकं वनतटे त्वया चोरितम् । विमोहकलितोत्पलं रुचिररागसत्पल्लवं
तदद्य हि वितीर्यतां विजितकामरूपोज्ज्वल ॥ ३३ ॥ आनन्दबाप्पसंरुद्धकंघरो गद्गदं पठन् । तदेवं विलिलेखाशु पत्रं तां प्रति मोदतः ॥ १४ ॥ मम नयनमराली प्राप्य ते वक्रपञ
तदनु च कुचकोशप्रान्तमागत्य हृष्टा । विहरति रसपूर्णे नाभिकासारमध्ये
यदि भवति वितीर्णा सा त्वया तं ददामि ॥ ३५ ॥ तावदन्तरुज्ज्वलितमनसिजाग्निधूमनिकरेणेव निःश्वासेन नीलमणीकृतनासामौक्तिका, क्षामक्षामाङ्गतया बलयीकृतकनकोमिका,
For Private And Personal Use Only