________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये वियोगिजनस्वान्तनितान्तचन्तनकुन्तायितकैतकदन्तुरितं वनमजायत । मार्गे मार्गे माधवीमानिनीभिः सूनार्चाभिर्मानितो वातपोतः । भृङ्गस्त्रीणां गीतसक्तं कुरङ्गमारुह्यासावाववो मन्दमन्दम् ॥ २ ॥ पुरान्निरीयुः प्रमदाजनेन पौराः समस्ता नरपालमुख्याः । क्रीडां विधातुं द्विविधे वनेऽपि मधौ दुरन्ते विरहिव्रजस्य ॥ ३ ॥
तुङ्गं शताङ्गमारूढः स्वामी सहचरैः सह ।
पौरस्त्रीनयनानन्दमातन्वन्निरगात्पुरात् ॥ ४ ॥ ततो जनकोलाहलोद्धान्तशकुन्तवृन्दतया माधवागमनकोतुकेनोत्क्षि. प्तवैजयन्तीमिव सञ्चरञ्चञ्चरीकधोरणीहरिन्मणिमयतोरणमालाविराजि. तां पल्लवकवलनतत्परपयोजबान्धवस्यन्दनगन्धर्ववदनविलनिपतितफेनशकलसंभाव्यकलिकाविलसितोन्नतमहीरुहराजितामभिसारिकामिवोच्चैः स्तनशिखरशोभितपत्रविचित्रामनेकविटपसंस्पृष्टपयोधरतटां चारामवीथीमासाद्य पौराः पुप्पापचयं कर्तुमारभन्त । तत्र निनकान्तां कोपक. लुषितस्वान्तामाध्याय कश्चिदाह ।
प्रसारय दृशं पुरः क्षणमिदं वनं विन्दतां
स्थलोत्पलकुलानि वै कलय तन्वि मन्दस्मितम् । पतन्तु कुसुमोच्चया दिशि दिशि प्रहृष्टालयः
स्फुटीकुरु गिरं पिकः सपदि मौनमाढौकताम् ॥ ५ ॥ परिफुल्लनवपल्लवतल्ल जाधरपुटां विकचकुसुममन्दहासां चञ्चरीकचूचुकमेचकितगुलुच्छस्तनयुगलां वासन्तीलतामन्यामिव लताङ्गी पश्यन्तमात्मानं प्रति कुपितां प्रेयसी परिसान्त्वयितुकामः कश्चिदेव. मब्रवीत् ।
सञ्चारिणी खलु लता त्वमनङ्गलक्ष्मीरम्लानपल्लवकरा प्रमदालिजुष्टा ।
For Private And Personal Use Only