________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थों लम्बः । संमुखीभवितुमपारयन्तीम्, कुसुममृदुलदयिताङ्गस्पर्शनलोलुपामपि कम्पमानामनाम्, भृकुटीकपोलचुबुकरदनवसननयनचूचुकादिपदे परिचुम्बन , स्वेदसलिलसञ्जातमार्दवैः कररुहैः कठिनतरकुचकलशतटे पदानि विदधानः, नखंपचोप्मलवक्षोरुहशिखरादपकर्ण्य पञ्चशाखपङ्कजं निम्ने नाभिसरसि निदधानः, मदनकदनारम्भसंसूचककाञ्चीकलापकलकलपटुपटहारवपरिशोभितं नीवीबन्धनभेदनं कुवार्णः, मदनमत्तदन्तावलालानस्तम्भायमानमूरुस्तम्भं मारमदेभमोचनायेव परिमृशन्, अधिकतरमरमत ।
जायापती ती जगतां स्तुत्यौ निस्तुलसंपदा |
आसामासतुरानन्दनिधेः पारे गिरामपि ॥ ७० ॥ इति महाकविहरिचन्द्रविरचिते चम्पुजीवंधरे गन्धर्वदत्तालम्भो
नाम तृतीयो लम्बः।
चतुर्थों लम्बः ।
माकन्दद्रुममञ्जरीमधुझरीसंसक्तमाध्वीलिहां
झंकारैः पिकमञ्जुगानकलितैर्मारोत्सवाशंसिनः । प्राप्ताः केचन वासराः कुरवकपोन्मीलितैः कोरकै.
दन्ताभैविहसन्मुखा विरहिणां मर्मच्छिदाकर्मठाः ॥ १ ॥ तदानीं जगन्जयोद्युक्तपञ्चबाणप्रयाणसूचकमाञ्जिष्ठदूप्यनिलयनिकाशपल्लविताशोकपेशलं सुवर्णशृङ्खलसंनद्धवनदेवताञ्चितपेटिकायमानरसालपल्लवसमासीनकोकिलकुलं तरुणजनहृदयविदारणदारुणकुसुमबाणनखरायमाणकिंशुककुसुमसंकुलं मदननरपालकनकदण्डायितकेसरकुसुमभासुरं विलीनशिलीमुखजराभीरुशरधिसरूपपाटलपटलं
For Private And Personal Use Only