________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः।
१२९
भिसारेण बलेन स्थगितक्षितितलाभोगः, पर्वतनिकाशं विजय गिरिनामधेयं गन्धसिन्धुरमधिरूढो, भाविचक्रपातसूत्रन्यासरेखाशङ्कावदान्यरेखात्रयशोभितं गलमभितो लम्बमानेन चक्रपतनसंप्रतीक्षस्य स्कन्धगतस्य मृत्योः करवितीर्णेनेव पाशेन मुक्ताहारेण भासुरवक्षःस्थलः, कोटीरमणिगणप्रतिविम्बितमार्ताण्डमण्डल. तया 'कुरुवीरशरसमाच्छादिते गगने सोऽयं न मत्संनिधानमागन्तुमर्हति' इति करुणाकरेण दिवाकरेण पूर्वमेव गृहीतमस्तक इव बाभास्यमानः, कुटिलितभृकुटीघटितवदनः काष्ठाङ्गारः स्वयमेव संग्रामाङ्गणमाजगाम ।
कुरूणां वीरोऽपि प्रचुरबलकोलाहलकला
विलासव्याप्ताशापतिसदनवातायनमुखः । क्रमात्क्रामन्गन्धद्विपमशनिवेगाभिधमयं
रणाग्रं संप्राप सितिविदितदोर्दण्डमहिमा ॥ १०४ ॥ जडीकृतश्रवःपुटे दिवौकसां जयानका.
वे सुराचलोल्लसदरीविशत्यनेकशः । सुपर्वकामिनीजनप्रहर्षगीतकौशलं
बभूव निष्फलं तदा प्रतिध्वनगुहारवैः ॥ १०५ ॥ रथक्षुण्णक्षोणीतलगलितपासून्मुखगता
न्दिशानागाः शुण्डोद्गतजलकणैः शान्तिमनयन् । रहः स्त्रीणां रूप्याचलकुहरतल्पेषु खचराः
विवस्त्राणामङ्गेष्वतिबहललग्नान्वसनतः ॥ १०६ ॥ अदृष्टचरमाहवं सुरगणैरथोज्जृम्भितं
क्षणेन मदमेदुरं प्रचुरवीरवादोत्कटम् । चलाचलरूपाणिकाप्रतिफलद्विवस्वत्प्रभा
For Private And Personal Use Only