SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः । एवं निनध्वनिनीक्षोभमालोक्य तत्क्षणकन्दलितकोपौ मगधमागधभूपो कुटिलीकृतचापौ निर्निरोधप्रचारेण रथेन क्षोणीतलं क्षोभयन्तौ निजसैनिकशिखावलधनगर्जितायमानसिंहनादेन वैरिजनधैर्यमुन्मूलयन्ती जवेन पद्मास्यमापतताम् । तं मागधमहीपालं वर्भानुरिव भास्करम् । दधाव रथिनं वीरो देवदत्तो धनुर्धरः ॥ १७ ॥ तदनु करलाघवकोरकितधनुर्लतारिनिरन्तरनिर्मुक्तशरनिकरदूरोसारितनभःस्थलसंमिलितामरलोकं पाणिपात्रस्थकीलालपाननिरुत्सुकैविस्मयस्तिमितलोचनैस्तुषोत्तालेर्वेतालविलोक्यमानशरसंधानमोक्षणम - न्योऽन्यास्त्रसंवसातपोञ्चलत्प्रचुरविस्फुलिङ्गपरंपरावित्रासितकुञ्जर. कुलं वैमानिकजनसीमातीतश्लाघाविषयभूमाञ्चितं सकलवीरजनोत्साहदानशौण्ड प्रचण्डतरदोर्दण्डयोमथनपद्मास्ययोर्मागधदेवदत्तयोश्च वा. चामगोचरं समरमुदजृम्भत । मथनदलितान्बाणान्दृष्ट्वा निनान्बहुशस्तदा कमलवदनः सोऽयं कर्णान्तनर्तितशिञ्जिनिः । विततविशिखैः सूतं केतुं च तस्य विभेदय निनगलगलत्सिंहध्यानैर्नभः समभेदयत् ॥ ६८ ॥ ततश्च दुर्धर्षामर्षपाटलवदनेन मथनेनार्धचन्द्रेण निकत्ते निजकामुकगुणे, पद्मास्यः, करतलताण्डवितकोदण्डान्तरसमारोपितकाण्ड प्रकाण्डै रिपुमण्डलानि खण्डयन, तस्य सपत्नस्य शरासन समरोत्साहं च युगपद्विदारयामास । तत्तादृग्देवदत्तप्रचलकरतलात्पत्रिणो युद्धरङ्गे पेतुः प्रोद्धृतपक्षाः कतिचन गगने तस्थुरुद्यद्याच्याः । श्लो. ६९. उद्यद्भयाझ्याः, आविर्भअन्त्या कान्त्या पूर्णाः । 11 For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy