SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीबंधर चम्पुकाव्ये निरोडुमिव निबध्य करे कृपाणं मनसि धैर्य सपत्ने दृष्टिं महीतले रिपुशिरःसहस्त्रपतनं च युगपदातन्वानः क्रतुभुनां श्लाघानां पुष्पवृष्टीनां च पात्रमजायत । सैन्यद्वये तत्र विमिश्रितेऽपि विशेष एष व्यलसद्रणाग्ने । स्वीयाः पराश्च पदगाः पुरस्ताद्ये संमुखास्ते रिपुसैन्यवर्गाः ॥६२॥ तदानीं रिपुशरनिकृत्तचापलताश्चापलकरवालैभन्नकरवालाः पाणिभिश्छिन्नपाणयश्चरणभिन्न चरणा दुर्वचनैः क्रोधपरीता योधाः परस्परमाजनुः । एवं शब्दपूरितगगनजयानके भयानके समीके विजृम्भिते मथननिर्मुक्तनाराचधारापातेन दीनां निजसेनामालोक्य करकलितकार्मुकलताविस्फारघोषेण द्विविधानपि महीभृतः कम्पयन्कोपारुणास्यः पद्मास्यो वेगविततचक्रस्पन्दनेन स्यन्दनेन वि. पक्षवाहिनीं दिधक्षन्निवाभिदुद्राव । पद्मास्यप्रहिताः प्रभूतविशिखाः सेनान्तराले रिपो__ोधास्तत्र सहस्त्रशो निपतितान्भमौ व्यधुः पतिशः । घोटान्पाटितविग्रहान्गजवटाः प्राणालिभिटाः कूजञ्चापधरान्वहछरधिकांश्चकुर्व्यसून्संयुगे ॥ ६३ ॥ तस्यामितैः शरगणैर्गगनं रिपूणां सैन्यं च पूरितमभूवनसंप्रहारे । भूमिश्च भनभटवाजिगजैः परीता __ हाहारवैररिवलस्य दिशावकाशः ॥ ६४ ॥ द्विषतां तत्पतीनां च नवास्त्रेनिम्नगाः सृजन् । पद्मास्यः प्रीणयामास निजसैन्यनदीपतिम् ॥ ६५ ।। शरास्तदानीं जलजाननस्य नामाक्षराणां मलिता न भयात् । इतीव राज्ञां हृदये प्रविष्टाः प्राणानगृह्णन्त न रक्तलेशम् ।। ६६ ।। For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy