SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः । अश्वारोहैः कृत्तदण्डानि भूमौ पर्यस्तानि स्फारच्छत्राणि रेजुः । रूप्यस्थालानीव क्लत्तानि मृत्योराहाराय प्रौढचन्द्रातीनि ॥५६ ।। खङ्गैः कृत्ता वाजिनां वक्रभागा रक्तस्रोतो नीयमाना जवेन । मनाङ्गानामुन्मुखानां हयानां भ्रान्ति तेनुः पश्यतामाजिरङ्गे ॥ ५७ ॥ भटानां रोषेण प्रतिभटसमीपं प्रचलतां समुदाता रेजुश्चलदसिलताः पाणिकलिताः । भुजश्रीखण्डद्रुप्रकरकुहरोद्यद्विपधरा रिपूणां प्राणालिं कबलयितुकामा इव तदा ॥ १८ ॥ समीकपदवीविदः समदसिंहनादा भटा ववल्गुरमितैः शरै रचितमण्डपा : पुष्करे । निरस्ततपनातपश्रमभराः क्षणाद्गुरै : शरीरनिकरैर्यशःस्थिरतनूर्भुवि प्रेप्सवः ॥ १९ ॥ तत्र समीककलाविपश्चिदाश्चर्यवृत्तिः पदातिः, केनचित्पदगेन भुनध्वजतिर्यगर्पितवैजयन्तीतुलितां कृपाणीलतां बिभ्राणेन 'इदं मदीयनामधेयपूर्वभागं बिभर्ति' इति रोषादिव पदद्वये निकत्तोऽपि, अखण्डितमात्मसत्वमिव घनवंशजातं चापमालम्ब्य, शूरो न पपात । नीलाभ्रतुल्ये कवचे भटस्य नीते प्रभेदं करवालवल्लया । तत्र प्रवृत्ता घनशोणितालिः सौदामिनीसाम्यमवाप दीर्घा ॥६॥ कश्चिद्भटः शत्रुशरैः परीतसमस्तदेहः समिति व्यलासीत् । यथा महीनः प्रचुरप्ररोहो यथा च नागाततचन्दनद्रुः ॥ ६१ ॥ वीराग्रेसरः पदचरः प्रथितरिपुमण्डलायखण्डितमस्तकविगलदसृग्धाराभयङ्करमुखभागतया बहिःप्रसृतया क्रोधपरंपरया परीत इव मृत्युमूर्धानं दृढतरमुष्णाषेण प्रभुकार्यापरिसमाप्तीप्राणोत्क्रमणं For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy