SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० जीवंधरचम्पुकाव्ये क्षेपडालायमानमुक्ताकलापेन चलितनवमालिकोडीनभृङ्गसङ्घसंस्तृयमानयशोविभवेन, अर्धावलम्बितकर्णपूरचुम्ब्यमानगण्डस्थलेन राजकेन स्वयंवरमण्डपं स्वयमुच्चलितमिवाभवत् । वराहयन्त्रमभितो धराधीशाश्चकाशिरे । कुलाद्रि परितः कीर्णाः शिलाखण्डलवा इव ॥ १६ ॥ ततश्च मगधाधिपे विदितशक्तिलोपे भृशं कलिङ्गनरनायके विषयमस्टशत्सायके । नृपे च विनतापुरो निहितलक्ष्यधूलीहरे शरव्यचलनोदरे प्रथितपौदनाधीश्वरे ॥ १७ ॥ अयोध्याभूपाले भुवि पतति धैर्येण विकले तथावन्तीनाथे वितथभुजशौर्ये मितकथे । नृपेप्वन्ये वेव कुवलयदृशां हासविषये प्वयं काष्ठाङ्गारः कुतुकवशचित्तः प्रचलितः ॥ १८ ।। तदनु काष्ठाङ्गारो दर्पदुर्ललिताकारः कलभनिभचारः, लद्यन्त्राधोभागभ्रमञ्चके पादं निधाय पारवश्येन भुवि पतितः, क्षितिपतिवलयस्य कमलाक्षीजनस्य च हास्यवदान्यो बभूव । कुमारेऽस्मिन्धीरे सहचर घटामध्यलसिते यथा प्रोद्यत्तारागणपरिवृते शीतकिरणे । तदानी गोविन्दसितिपतिरदादृष्टिमधिका मुदस्थात्सोऽप्येष स्मितविशदवत्रः कुरुवरः ।। १९ ।। तइनु सखेलं भुवि पदानि निदधानं जयलक्ष्मीनिवन्धननिगल. कटकशङ्कावहमरकताङ्गदशोभितं सञ्चरणसञ्चलन्मुक्तादामबाभास्यमा. न वक्षःस्थलं जीवंधरमवलोक्य तवत्या एवमेवं विदामासुः । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy