________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नतानवतोद यमानतः । परमनिर्वृतिशर्मकृतो यतो जन नतानवतोऽदयमानतः ॥ २॥ जयति कल्पितकल्पतरूपमं मतमसारतरागमदारिणा । प्रथितमत्र जिनेन मनीषिणामतमसा रतरागमदारिणा ॥ ३ ॥ घनरुचिर्जयताद्भुवि मानवी गुरुतरा विहतामरसंगता ।कृतकरास्त्रवरे फलपत्रभागुरुत्तरा विहतामरसं गता।
॥ अथ श्रेयांसजिनस्तुतिः॥ कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततमां द्राक्श्रेयांसं न चाहृत यन्मनः कमलसदृशाङ्गी तारा वाबलदयितापि तम् ॥ १॥ जिनवरततिजींवालीनामकारणवत्सलासमदमहितामारादिष्टा समानवराजया। नमदमृतभुक्पतया नुता तनोतु मतिं ममासमदमहितामारादिष्टा समानवराजया ॥ २ ॥ भवजलनिधिनाम्यजन्तुबजायतपोत हे तनुमतिमतां सन्नाशानां सदा नरसंपदम् । समभिलषतामहन्नाथागमानतभूपति तनुमति मतां सन्नाशानां सदानरसं पदम् ॥३॥ वृतपविफलाक्षालीघण्टैः करैः कृतबोधित प्रज
For Private And Personal Use Only