________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६७ विधत्स्व प्रयत्नं स्वायत्यागे तनुमदवने हेमतारातिमत्ते । अध्यारूढे शशधरकर श्वेतभासि द्विपेन्द्रे स्वायत्यागेऽतनुमदवने हे ऽमतारातिमत्ते ॥ ४ ॥
॥ अथ सुविधिजिनस्तुति॥ ॥तवाभिवृद्धिं सुविधिविधेयात्स भासुरालीनतपा दयावान यो योगिपङ्क्तया प्रणतो नमः सत्सभासुराली नतपादयावन् ॥१॥ या जन्तुजाताय हितानि राजी साराजिनानामलपद्ममालमादिश्यान्मुदं पादयुगं दधाना साराजिनानामलपद्ममालम्॥२॥ जिनेन्द्र भृङ्गैः प्रसभंः गभीराशु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात् शुभारतीशस्य तमस्तवेन ॥३॥ दिश्यात्तवाशु ज्वलनायुधाल्पमध्या सिताकं प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरुपृष्ठमध्यासिताकम्प्रवरालकस्य ॥४॥
॥अथ शीतलजिनस्तुतिः ॥ जयति शीतलतीर्थकृतः सदा चलनतामरस सदलं धनम् ।नवकमम्बुरुहां पथि संस्पृशञ्चलनतामरसंसदलंघनम् ॥ १॥ स्मरजिनान्परिनुन्नजरारजोजन
For Private And Personal Use Only