________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
तस्याश्चर्यमिदं न किञ्चिदपि यत् कृष्णावतारोऽपि सञ्श्रीराधाऽऽकृतिमग्रहीत् स्ववपुषा देवः स विश्वम्भरः ॥ अथ वा।
हरिरयमथ लीलया स्वशत्या विदलयुगात्मकलायवन्न भिन्नः । अभवदिव पृथक् पुमान् बधश्च
खयमुभयांशसमानरूपयोगात्॥ पुनरन्यतोऽवलोक्य ।
इयमपि ललितैव राधिकाऽऽली खल न गदाधर एष भूसुरेन्द्रः। हरिरयमथ वा खयैव शक्त्या
त्रितयमभूत् स सखी च राधिका च । पुनरन्यतोऽवलोक्य । अहो इयमपि योगमायाऽगमायादशमिनी शमिनी नीरजा नोरजाक्षी धवल-बलता केश-पाशेन तम इव शुद्धसत्त्वीकृत्य दधाना जरतीवेशं विधाय प्रविष्टा । नेयं नित्यानन्दतनुः। नित्यानन्दतनुर्भगवान् हि स्वामेव योगमायामायापयामास । तस्य तु न चित्रमतत् । यतः
निवासशय्यासनपादुकांशकोपधानवर्षाऽऽतपवारणादिभिः। शरीरभेदैस्तव शेषतां गतै
यथोचितं शेष इतोरितो जनैः॥ इति प्राचीनैर्भक्तरुतम्।
For Private And Personal Use Only