________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हतीया प्रेममैयाद्यभिनयः । नार। सत्यमात्य तदेवमेव कुर्व । इति तथा स्थिती । ततः प्रविशति कदम्बतरु-काण्ड-कृताऽऽलम्बस्त्रिभङ्गो-ललितो मुरली वादयन् कतिपयैः सखिभिः सह श्रीकृष्णः । श्रीकृष्णः । सखे रम्यमिदं वृन्दावनस्य सौभाग्यम् । तथा हि
हसन्ती वासन्ती वलितमुकुलो बालवकुलो विशोकश्चाशोकः सुलभविचयश्चम्पकचयः । अनागः पुन्नागः स्तवककमनः पश्य सुमनः
कुटीरः पाटीरश्वसनसुरभिति सुरभिः ॥ वयस्याः। भो वअस्म तुभ एदं कीला-काणणं कधं रमणिज्जंण विस्मदि (१)। प्रेम। निर्वर्ण्य। अहो किमेतत्।
अयं नैवाईतो वत न तदिदं वेशरचनाकलाशिल्पं किन्तु स्वयमिह हरिः प्रादुरभवत् । यथार्थं वस्वेव प्रथयति चमत्कारमधिकं
यथार्थस्याकारः सुखयति च सन्देहयति च ॥ युनर्निभाल्य सपरामर्शम् ।
अकृष्णः कृष्णत्वं ब्रजितुमसमा हि भवति खयं कृष्ण नानाकृतिकृतिसमर्थाऽपि भवति । ग्रहीतुं योग्यः स्यादवयवकलापं ावयवी कथकारं धत्तामवयवविशेषोऽवयविताम् ॥
(९) भी वयस्य तव इदं क्रीडा-काननं कथं रमणीयं न भविष्यति ।
For Private And Personal Use Only