SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य तदयमद्वैत एव न भवति । नाऽपि वेशरचना कौशलम् । किन्तु स्वयं कृष्ण एवावतीर्मः । नार। दूरान्निभाल्य सानन्दम् । अहो किमेतत् । सान्द्रानन्दरसाब्धिमन्थविदितं सद्भक्तगोष्यां कृपामोहिन्या परिवेषितं रतिमतां वृन्देन तत्राभितः । नानारुच्यनुपानतः प्रतिमुहुः पातञ्च पूर्ण सदा नो जीयंत्यपि नापयाति विकृति श्यामामृतं किच्चन। अपि च। नवजलधरधामा कोटिकामाऽभिरामः परिणतशरदिन्दुस्निग्धमुग्धाऽऽननश्रीः । नवकमलपलाशद्रोणिदीर्धारुणाक्षो दशनकुसुमकान्तिश्रान्तविम्बाधरौष्ठः ॥ इत एवाभिसर्पति। तदेहि कुञ्जाऽन्तरितो भूत्वा पश्यावः । स्नात। एवमेव। इति तथा कुरुतः। . कृष्णः । सखे सुबल सखे श्रीदामन् सखे सुदामन् कुसुमाऽऽसवो नाम वटुः प्रियसखो मे कथं न दृश्यते । तदेतं मृगयत। सखायः। यथाशं मृगयाम। इति तदन्वेषणं नाटयन्ति । प्रविश्याऽपटीक्षेपेण सम्भान्तो विदूषकः । भो अस्म परित्ताहि परित्ताहि (१)। (१) भो वयस्य परित्राहि परित्राहि। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy