SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयाङ्के प्रेममैयाद्यभिनयः। स्नात। भो इत इतः । इत्युभी नाश्येन परिकामतः । प्रेम। निरूप्य।अहो महाभागवतस्य नैसर्गिको वृन्दावनर तिः। नार । नाद्येन कियडूरं गत्वा। हन्त भोः। यत्यारे विरजं विराजि परमव्योमेति यद्गीयते नित्यं चिन्मयभूमिचिन्मयलता कुञ्जादिभिर्मञ्जलम् । सान्द्रानन्दमहामयैः खगमगवातेवृतं सर्वतस्तइन्दावनमीक्ष्यते किमपरं सम्भाव्यमदणोः फलम् ।। यत्र स्वयं स्वयम्भूरप्यस्मत्पिता यत्किञ्चिदेव जन्माऽभिलषितवान्। तथा च पौराणिकी गाथा। नरिभाग्यमिह जन्म किमप्यटव्या यगोकुलेऽपि कतमाघ्रिरजोऽभिषेकम् । इत्यादि । इत्येतदेव पद्यमुपवीण यन्नटति। स्नात। एवञ्चेत् प्रतिपदमेव भवता प्रेमानन्दविहलेन भूयते तदा कथं गम्यताम्। नार। धैर्य्यमवष्टभ्य । आदिश मार्गम। स्नात। इत इतः। इत्युभौ पुनायेन परिकामतः । नेपथ्ये । मुरलीध्वनिः । स्नात। देवर्षे इदमेव वृन्दावनम् । यदेष भगवतो मुरलीकल आकर्ण्यते। नार। श्रुतिमभिनीय । अये सत्यमेवात्य । तथा हि मधुरिमसरवापीमत्तहंसोप्रजल्यः प्रणयकुसुमवाटीभृङ्गसङ्गीतघोषः । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy