________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य कैलासकान्तिरयमेति सुरर्षिरये ॥ वत्मे प्रणमैनम्। महाभागवतोत्तमोऽयं मुनिवरः। यस्य खल्वियं गाथा।
अहो देवर्षिर्धन्योऽयं यत्कीत्तिं शार्ङ्गधन्वनः।
गायन् माद्यन्निदं तन्व्या रमयत्यातरं जगत् ॥ मै। प्रणम्य । देवि तुए भणिदं। मिरिवासो णारदो हुविस्मदि । कहं दाणिं सज्जेव णारदो आओ (१)।
प्रेम। अस्य सहज-नारदाऽऽवेशत्वान्नार अद्वैतादेस्तु तत्तदारोपः । तत्त्वया यथादृष्टमेव प्रतीयताम्। नार। भो भोः स्नातक कथमत्र कोऽपि न दृश्यते। स्नात। सुरर्षे गन्धर्वराजस्तु वृन्दावन एव नर्त्तितव्यमिति तत्रैव ससामग्रीको गतवानस्ति । एहि तत्रैव गच्छावः।
नार। इदं वृन्दावनं न भवति। स्नात। भो महात्मन् अतिशयहर्षात्कर्षण स्वात्माऽपि विस्मतो भवता। यच्च तथा वृन्दावन-परिचय-चातुर्य-धर्योऽपि वृन्दावनं न परिचिनोष। नार । भोः स्नातक सत्यमेवोक्तं भवता।
आनन्दोन्मादलुप्तान्तर्वहिष्करणवृत्तयः ।
परिचिन्वन्तु के सम्यगात्मानं किमुतापरम्॥ तदादिश तस्य पन्थानम् । (१) देवि त्वया भणितम्। श्रीवासो नारदो भविष्यति । कथमिदानी खयमेव नारद यागतः ।
For Private And Personal Use Only