________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हतीयाके प्रेममैथ्योरभिनयः। हे श्रीवास स्वयमवहितेनाद्य भाव्यं त्वयास्मिन् योग्यो यः स्यात् स विशति यथा नापरस्तबिधेयम्। इत्याक्त श्रीवासेनाभाणि। देव कस्मिन् कर्माणि योग्यायोग्यव्यवस्था करणीया। कुत्र बा प्रवेशः कारयितव्य। इति पुनर्देवेनाप्यवादि।
श्रीराधाऽत्र स्वयमियमहो नूनमाचार्य्यरत्न
स्यावासस्याङ्गणभुवि रसायक्तमाविर्भवित्री॥ मैत्री। तदो तदो (१)।
प्रेम। ततः श्रीवासेन मनसि सन्दिहानेन भगवदच इति विहितनिश्चयेनापि गङ्गादासनामा भगवतः परमाप्तो भूसुरवरो द्वारपालत्वेन न्ययोजि। मै। तदो तदो (२)। प्रेम। भगवता पुनरपि श्रीवासो निजगदे। श्रीवास भक्ता नारदेन भवितव्यम्। शुक्लाम्बरेण तव स्नातकेन भाव्यम। गाथकाः श्रीरामादयस्तव सहोदरास्त्रयः । आचार्य्यरत्नविद्यानिधी चेति देवेनैव नियोजिताः। अतः परं न केषामपि तत्र प्रवेशः । किन्तु श्रीवासादि-सहोदर-बधूभिः सहाचार्यरत्न-मुरारि-बधू-प्रमृतयः प्रागेव तत्र प्रविश्य स्थिता अधिकारभाजश्च ताः। नेपथ्ये । मृदङ्गतालादिध्वनिः।
(१) ततस्ततः। (२) ततस्ततः।
For Private And Personal Use Only