________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टतीयाझे प्रेममैयोरभिनयः। इति सविस्मयमालोकयति। ततः प्रविशति । प्रेमभक्तिः । पुरोऽवलोक्य । अहो केयम् ।
नामैकमात्रं वपुरादधाना विम्लानकान्तिः परितोषहीना। सोत्कण्ठमस्मन्मुखमीक्षमाणा
शनैः शनैर्मत्पुरतोऽभ्युपैति॥ मैत्री। निपुणं निभाल्य। अम्महे इयंज्जे पेम्मभत्ती-जननी कहिएण लच्छणेण लच्छीअदि।ता उपसप्पिस पणमामि (१)। इत्युपस्टत्य । देवि वन्दिज्जसि मेत्ती-णामधेआए मए (२) ।
प्रेम। सचमत्कारम् । कथं मैत्री त्वमसि। एहि वत्मे एहि इत्यालिय । मैत्रि कथय कथमेकाकिनी दरवस्थिता भ्रमसि।
मै। कलि-परिअणेहिं णिज्जिदेसु अम्ह-सपच्छ भत्रभेम्हलिदा जीविदं गेनिअ पलाइदा। अदो मे दुरवत्थं किं पुच्छसि (३)।
प्रेम । वत्से निर्भयमतःपरं स्थीयता मत्मङ्गेनैव। तव मातामहभगिन्यस्मि । मै। कई वित्र (१)।
(१) अम्ब हे इयमेव प्रेमभक्ति-जननो कथितेन लक्षणेन लक्ष्यते। तस्मादुपसर्य प्रणमामि। (२) देवि वन्द्यसे मैत्री-नामधेयया मया।
(३) कलिपरिजनैर्निर्जितेषु अस्मत्मपक्षेषु भयविहलिता जीवितं ग्टहीत्वा पलायिता। अतो मे दुरवस्था किं एच्छसि ।
(8) कथमिव।
For Private And Personal Use Only