________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाके विश्वम्भरादेताद्यभिनयः । भगवान्। तन्द्रा-दोषोऽयमस्य । श्रीवा। आनन्द-तन्द्रा खल्वियं कुतोऽस्य दोषः । भगवान्। अद्वैतं प्रति । अद्वैत जाग्रत्मनोऽयं भवतः । अदै । साभ्यस्यमिव।
नवकुवलयदामश्यामलो वामजाहिततदितरजङ्घः कोऽपि दिव्यः किशोरः। त्वमिव स स इव त्वं गोचरो नैव भेदः
कथय कथमहो मे जाग्रतः स्वप्न एषः ॥ भगवान्। अहैत तवैवायं वासनाऽवगाही दोषः । यतस्वमेवेवं पश्यसि नापरः कोऽपि । श्रीवा। क एवंविधभाग्यवानास्ते यस्त्वां तथा पश्यतु । भगवान । सोयहासम् । श्रीवास भवानपि अद्वैतपथ-पतितोऽभूत्।
श्रीवा। कृष्णेन सह तवाढतं यत् तत् पथ-पातिन एव वयम्। कोऽत्र सन्देहः । भगवान्। एवञ्चेत् भवतोऽपि तेन सहाद्वैतम् ।
श्रीवा। भगवन् मैवं वादीः। त्वच्चरणारविन्द-मकरन्दकणाऽऽस्वाद-भाजां नैष पन्थाः।। भगवान् । तर्हि मयि कथं तदारोपयसि।
श्रीवा। न हीदमारोपणं स्वभावोऽपि भावो नापोतुं शक्यते। किन्तु नायमद्वैताचार्य्यस्य दोषः । अपि तु तवैव । यतस्त्वयोक्तं “तद्भवते दर्शयिष्य” इति । नेपथ्ये। सत्यं सत्यम् ।
For Private And Personal Use Only