________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
चैतन्यचन्द्रोदयस्य श्रीवा। कथमकम्मादस्यैवमभिनिवेशो जातः । भगवान्। श्रूयताम्। ध्यानाभ्यासकृता स्फूर्तिः स्फूर्तिः सा तु चिराद्भवेत्।
याऽऽकस्मिकी हदि हरेः साऽवतार इवाऽपरः ॥ श्रीवा। एवमेव । “सकृद्यद्दर्शितं रूपमेतत् कामयतेऽनघ" इति नारदस्य प्राग्जन्मनि दर्शितमित्यवतारसूचकम्। ध्रुवस्य त्वभ्यासकृता स्फूर्तिः । किन्तु भगवन् विना चिराभ्यासयोगेन कथं भगवत्-प्रकाशयोग्यताऽन्तःकरणस्य । भगवान् । अवधेहि।
पुरोऽनुग्रह एवास्य खोदयाधारधावनः ।
उदयात् पूर्वमर्कस्य विनिहन्ति तमोऽरुणः ॥ श्रीवा। किमयमद्यापि साक्षादेव वीक्षते किम्बेक्षितमनुवदति। भगवान्। पृच्यताम्।
श्रीवा। यदैतं प्रति । भो भो महानुभाव किं पश्यसि किम्बा दृष्टमनुवदसि। अदै। यानन्दान्ध्युत्थित इव किञ्चिदाह्यमवगाह्य ।
अस्मादिभावहिरुपेत्य महोऽतिनीलमन्तर्ममाविशदहो क्षणतस्तिरोऽभूत्। तेनातिदुःखितमना वहिरातदृष्टिः
पश्यामि तत् पुनरिहैव निमममासीत् ॥ श्रीवा। सोल्लासम् । भगवन् फलितमस्मदचः ।
For Private And Personal Use Only