________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाङ्के विश्वम्भरादैताद्यभिनयः । भगवान्। अद्वैत किमीक्ष्यते। अवै। खप्रायमान इव ग्रहग्रस्त इव किमपि पठति ।
अकस्मादन्मीलन्नवकुवलयस्तोमसुरभिघनश्रेणीस्निग्धः स्तवकिततमालावलिघनः । प्ररोहन्नीलामव्यतिकरविशेषोज्ज्वलतरो
महःपूरः कोऽयं नयनपदवों चोरयति नः ।। अपि च। प्रश्यामचित्किरणमण्डलमध्यवर्त्ति
प्रत्यङ्गकं मधुरिमामृतपूरपूर्णम्। वंशीकलक्कणितकेलिकलाविदग्ध
माद्यं महा घनसहोदरमाविरास्ते ॥ श्रीवा। अहो वर्तमानप्रयोगादतीतमपि प्रत्यक्षम्मन्यमानोऽयं निगदति।
भगवान्। आनन्दस्य वर्त्तमानत्वात् । तदाकर्णय भूयोऽपि विवक्षुरयं सर्वं तृष्णी तिष्ठन्तु। अहै। सुश्यामदीर्घधनकुच्चितकेशपाशं
सुभूलतं स्वलकमुन्नतचारुनासम्। आनोलशोणविपुलायतनेत्रपद्म बधूकबान्धवसुरेखभाधरीष्ठम् ॥ श्रीवत्मकौस्तुभरमासुषमासमेतवक्षःस्थलस्खलदुदारसुतारहारम् । आपादलम्बिवनमाल्यसुपाल्चमानं सदृत्तदोर्घतरपीवरबाहुदण्डम्॥
For Private And Personal Use Only