________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमाय चैतन्याद्वैतादिकयोरभिन यः । भगवतोऽत्र कृपाप्रसादौ।
अद्वै। अञ्जलिं बवा। देव देवहूतिः कपिलेन किल ज्ञानयोगभक्तियोग-योगतः कृतार्थोकृता। साम्प्रतमियं विश्वम्भर-जननी विश्वम्भर जन-नीति-कलया परिवृता केवल-बलमान-प्रेमाऽsनन्देन कृतार्थो क्रियताम्।
इति कराग्रेणावलम्ब्य भगवदग्रतोऽवैयग्यतोऽग्यतोघेण समुपसर्पयति।
शची। सचमत्कारविस्मयं खानन्दाऽऽवेश-पेशलमत-नयं तनयं विलोक्य जात-तदनुकम्पा कम्पायमान-शरीरा वाग्देवताऽवतार-प्रतिभा-प्रतिभासमानेव किञ्चिद पाठीत् ।।
विश्वं यदेतत् स्वतनो निशान्ते यथावकाशं पुरुषः परोभवान् । विभर्ति सोऽयं मम गर्भजोऽभू
दहो नुलोकस्य विडम्बनं महत्॥ इति स्तुवती ग्रह-रहीतेव विकला बलादेव तच्चरणी जिक्षति । अहै। निवार्य सविस्मयम्। कुत इयमस्याः स्फूर्तिर्भवति हि सहजः स माटभावोऽयम्। देहान्तरमपि भजते निरुपहितः प्राक्तनो भावः ।
भगवान्। देवि यद्यपि जगज्जननी त्वमसि तथापि श्रीवासादिषु यज्जातस्तेऽपराधस्तदुपरमे परमेश्वर-प्रसादस्ते भावो। भा-वोचि-निकर-परिपन्थी हि भागवतापराधः ।
For Private And Personal Use Only