________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य तथापि चेतो नहि मे प्रसन्न
कृपाकटाक्षं कुरु मे प्रसीद ॥ इति निःसाध्वसं साध्वसङ्कोचेन तत्पादयोः शिरो निदधाति । श्रीवासः । यालोक्य जनान्तिकं । गदाधर पश्य पश्य ।
कठिनतरतपस्योज्जम्भदम्भप्रलम्भादशनिशनिकठोरं चित्तमस्य दिजस्य । सपदि भगवदघ्रिस्पर्शनादेव भूत्वा
द्रुतमिव नयनाभ्यां रोमभिश्चाज्जिहीते॥ तदधुनाऽस्मिन् पुत्रधिया कीर्तनानन्देन सह विहरमाणा वयं मत्तनयोऽनयोपचित्याऽमीभिरेवोन्मादितो दितोऽप्यस्य व्यवहारमार्ग इति बहुशो निर्दिताः स्मः शचीदेव्या। यद्यसावधुना धुनानमात्मज-धियमात्मजमात्मजाऽऽनन्दाऽऽवेशविवशमेतं पश्यति श्यति तदाऽस्मिन् पुत्रभावभावं हेयत्वेन । तत्कथमिदं सम्पत्स्यते। गदाधरः। प्राचार्याश्चेत्कथयन्ति । अ। किं तत्। श्रीवासः । कर्णे । एवमेव। अई। साध साऽधनाऽऽनीयतां कः सम्भ्रमो भ्रमोऽस्या अपयातु।
श्रीवासः । यथाज्ञापयसि । इति निष्कम्य तामादाय पुनः प्रविश्य च । स्वामिनाचार्य विचार्य विज्ञापय जगन्मातरमेतां रमेतां
For Private And Personal Use Only