________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५
प्रथमाके चैतन्याद्वैतादिकयोरभिनयः। भगवान् । सानुग्रहम् । तत्ते दर्शयितव्यम् । अद्वै । अनुगृहीतोऽस्मि किन्तु भगवन्ननयोः प्रसीद सीदत एवती कृतमनोऽरुषा परुषापराधेन।
दुर्वासनाविषविषादहरे सुषीमछायाकरे पुरुकृपामकरन्दवर्षे । अम्भोजगञ्जनकृती चरणातपत्रे
मूतयोः कुरु विधेहि तथा प्रसादम् ॥ भगवान्। तथा कृत्वा।
नायं सुखापो भगवान् देहिनां गोपिकासुतः ।
ज्ञानिनाच्चात्मभूतानां यथा भक्तिमतामिह ।। इति पठित्वा सानुकम्पम् । माऽतःपरं विजातीय-वासनासनाथौ भवतम्। उभौ। दण्डवत् पतित्वा।
अहं हरे तव पादैकमूलदासानुदासो भवितास्मि भूयः। मनः स्मरेतासुपतेर्गुणानां
गृणीत वाक कर्म करोतु कायः ॥ इति पठतः। भगवान्। तथास्तु। शुक्लाम्बरः। सदैन्यम् । देव
तप्तानि भूरीणि तपांसि नाथ बहूनि तीर्थानि च सेवितानि ।
For Private And Personal Use Only