________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य भगवान्। अद्वैत सत्यमेतत्।
अदै । भगवन् मुरारिमुकुन्दादयोऽप्येते तव दास्यभावभाव-दातारो दातारो नयनानन्दस्य ।
भगवान्। अदैत अन्तरनयोरनयो महानस्ति। उभौ सशङ्क वेपाते पातेन कुलिशस्येव।
अद्वै। देव कोऽसौ। भगवान्। मुरारेमनसि न सिध्यति भक्तिरसो रसोन-दौर्गन्ध्यमिव विसारि-काटवमध्यात्म-भावनावनाग्रह-ग्रहिलत्वमेवास्ति । यदयमद्याप्यनुक्षण-क्षण एव वाशिष्ठविषये। अवै । किमपराधमध्यात्मयोगेन। भगवान्। त्वया कमिदमुच्यते ।
यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे।
विक्रीडतोऽमृताम्भोधौ किमन्यैः खातकादकैः । अद्वै। मुकुन्देन किमपराधम्। भगवान्। अनेन निरुच्यते। रुच्यते हि भगवतश्चतुर्भजरूपमेव तदेवोपास्यम्।
अ। किमिदं मतममतमहो। भगवान्। ऐच्छिकं भगवतश्चतुर्भुजत्वं स्वाभाविकं हि दिभुजत्वमेव । तथाहि “नराकृति परं ब्रह्म, गूढं परं ब्रह्म मनुष्यलिङ्गं, परमात्मा नराकृति" रिति नराकृतित्वं विभुजत्वमेव।
अद्वै । “स्वयमेवात्मनात्मानं वेत्य त्वं परुषोत्तम"। तर ज्ञापयन्तु निजरूपतत्त्वमिति।
For Private And Personal Use Only