SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमाङ्क चैतन्याद्वैतादिकयोरभिनयः । २३ नीमेव केवलम् । का नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा " || इति तदनु दनज-दमनेोपदेशमिव तन्मन्वानोऽन्वानोदितसकल- कमी हरिनाम - मात्र - शरणः शरणमपि विस्मृतवानस्मि । सर्व्वेरेवे|पहस्यमानोऽपि प्रशान्तमना मनागपि नान्यवृत्तिस्तदेव मृत्युदिनमनुसन्दधानेो दधानो हृदि विषादं मासान् गणयन्नुपरते वर्षे प्रत्यपसन्ने च मृत्युदिवसेऽवशेषायुरहं श्रीभागवताध्यापनकर्त्तुर्देवानन्दपण्डितस्यालयं तच्कुश्रूषया गतः प्रह्लाद चरितश्रवणकाले तमेव समयमासाद्य साद्यमान- ज्ञानो मृत्युवशङ्गतः पतितोऽस्मि । तद्भवानाऽऽलिङ्गतोऽङ्गणतलं तदनु केनापि, मृत्युमुखान्मोचितं चितं पुनरायुषेत्यात्मानं मन्यमाना विवश इव पुनरुत्थितवानस्मि । तस्मिन्नेव समये सर्व्व एव मामुत्थाप्य गृहमानिन्युः । भगवान् । निशां समया स मया खप्नो दर्शितः प्रगत-जीविवितोऽपि पुनर्जीवित-दानेन । सर्व्वे विस्मयं नाटयन्ति । भग। स्पर्शमणेः स्पर्शवशात् कनकीभावं प्रजातमिव लोहम् । तव तु तदेव शरीरं नारदशक्ति प्रवेशतोऽन्यदिव ॥ श्रद्वै। एवमेतत्। अन्यथा न मृतः पुनर्जीवति किन्तु भगवन् सर्व्व एवैते तव स्वभाव-भाव - सहचरास्तथापि महजनेन जनेन शरीरान्तरमिव लभ्यते इति शिक्षया अक्षयाऽऽनन्देन भगवतेद मध्यवसितम् । वस्तुतः स्तुतमहिमाऽयं तव भक्तिश्रीवासः श्रीवास । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy