________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य षमाचामतोऽङ्गलि-विवर-विगलिता इव तत्कणाः क नामास्माभिरप्याचम्यन्ते। भगवान्। श्रीवास म्मरसि विनिर्यतस्तवास्तू
नारीत्मं यदिह चपेटपाटवेन। श्रीवासः । स्मृतिमभिनीय ।
आवेनि प्रभुवर मोचितोऽस्मि मृत्योः
केनापि प्रसभमिति स्मृतिर्ममास्ते॥ सर्वे विस्मयं नाटयन्ति। भगवान्। श्रीवास् आमूलं कथय सर्च टण्वन्तु । श्रीवा। भगवत आविर्भावात् पूर्वमाशैशवमाषोडशवर्षमयं जन्तुरतिदन्तुरतया दिजगुादिषु मन्तुमत्तया मत्तया मनोवृत्त्याऽगच्छदशान्ति-दशाऽन्तिम काष्ठा काष्ठायमान-हृदयोदयो वृथा-कलह-लहरी-कुकथादिभिर्मद-मेदुर-दुरवस्थितधीः स्वप्नेऽपि नश्रुत-कीर्तित-भगवद्गणः कदाचिदाचित-पूर्वसुकृत-सुकृत वशान्निद्रा-निद्रावितायां सज्ञायां केनापि करुणात्मना स्वप्ने समुपदिष्ट इव जातोऽस्मि। यथा “अरे ब्राह्मणब्रुव ब्रुवन्तु के त्वामुपदेशवाचं वा चच्चलहृद्यं तथापि महे। वर्षमेकं तेऽतः परमायुरतःपरं वृथायुःक्षेपं माकार्षारिति” विभावितायां विभावों व- तामुपदेशवाचमनुस्मरन्नल्पायुष्कतया विमनस्को विरताखिल-चापलस्तद्दिनमुपोषितः पोषितस्तेनैवोपदेशापदेशामृतेन परुषनिःश्रेयस किमिति निर्णतुं विधिवन्नारदीयपुराणपद्यमिदमुपलब्धवानस्मि। यथा “हरेनीम हरेनीम हरे
For Private And Personal Use Only