________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमावे चैतन्यादैतादिकयोरभिनयः । विभवश्चाद्वैतादयश्च दूरे कीर्तयन्तो अन्ये च भागवताः । भगवान् । अद्वैत। गोलोकादवतारितोऽस्मि भवतैवाहं सुदुारया स्वप्रेमामृतवन्ययैव परया दैन्यादिनाऽनन्यया । अद्वै। व्यञ्जलिं बवा। कोऽहं क्षुद्रतरस्त्वयैव भगवन् लीलावशेनात्मना
लोकानुग्रहसाग्रहेण धरणावात्माऽयमाविष्कृतः ।। कथमन्यथा। "तथा परमहंसानां मुनीनाममलात्मनाम् । भक्तियोगविधानार्थं कथं पश्येमहि स्त्रिय” इति कुन्त्युक्तदिशा तथाविधानां नीरसतया शुष्कहृदयानां मुनीनां हृदयसरसीकरणाय प्रकटित-जगन्मङ्गल-मङ्गलावतारेण स्वयं भगवता व्रजराजकुमारेण विरचितासु पुरुषार्थ-साापार्थोकरण-समर्थ-श्रवणकीर्तनादिषु ब्रह्मानन्दादपि चमत्कार-कारिणीषु गोकुल-मथुरा-दारवती-लीलासु “भगवत्युत्तमश्लोके भवतीभिरनुत्तमा। भक्तिः प्रवर्त्तिता दिष्ट्या मुनीनामपि दुर्लभा" इत्युद्धवोक्तदिशा सकल-रस-पारावार-पारवर्ति-गोकुलाद्यपरनामनि श्रीवृन्दावनधामनि निकाम-निरतिशयानन्द-भूमनि मूर्त्तिमदानन्दशक्तिभिः सतत-सन्तन्यमान-मानस-राग-परभाग-भागधेयाभिराभीरभीरुभिः प्रवर्तितं तादृशप्रेमतत्त्वं तदानों तत्रैव स्थितम्। सम्प्रति सम्प्रतिपद्यमान-तदास्वादखादर-गृहीत-समुचित-विग्रहस्य तव सौभगवतो भगवतो निरवधि तदेव मधुरतर-रस-रहस्य-पीयूष-यूषमाहितगण्डू
For Private And Personal Use Only