________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमाके कल्यधर्मयोरभिनयः । गदाधर विधत्व भो वसनमाल्यभूषादिक
मयाऽयमभिषेक्ष्यते हरिरि हैव खट्वोपरि ॥ कलिः । नेपथ्याभिमुखं परितोऽवलोक्य । सखे पश्य पश्य ।
यान्यायान्ति च हन्त मङ्गलघटव्यग्राग्रहस्ताः स्त्रियो या एताः परितः पुरात् सुरधनी तत्कूलमूलात् पुरम् । तासां वाचि तदीहितं नयनयोरसन्तनौ वेपथधम्मिले श्लथता कपोलफलके रोमाञ्च इत्यद्भुतम् ॥ अध। धम्मिल्ले श्लथता तदेतदखिलं कामस्य विस्फजितमित्येव भण्यताम् । यतः।
यत्र यत्र हरिणीदृशाश्रमस्तत्र तत्र मदनस्य विक्रमः । खप्रकर्षजननों विना चमूं
केवलो जयति किच्चमूपतिः॥ कलिः। नाप्यतत्।।
भावेनोपहतं चेतो दयेषां क्षोभकारकम्।
निर्भावानां पुनस्तेषामाकारो नापराध्यति ॥ पुनर्नेपथ्ये। तुमुलनिर्घोषपोषकः पुरुषसूक्लपारायण सुरसः कल
कलः ।
कनिः। निवर्ण्य । अहो अत्यङ्गतम्। एते ब्रह्मकमण्डलोरिव घटानिःस्यन्दमानैर्मुहुः स्वर्गङ्गाजलनिर्झरैरविकलक्लिन्नात् सुमेरोरिव । गौराङ्गस्य शरीरतो निपतता भूमण्डलोल्लासिना
For Private And Personal Use Only