________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य ___ निस्यन्दाः सुमहाभिषेकपयसा सस्रुश्चतस्रो दिशः ।।
अपि च। अभिषिक्तस्य निःसारित-सारि-तराभिषेक-कीलालस्य लालस्यमान-वसन-परिधापन पणनशोभमानस्य मानस्य परितोष-विशेषेणाशेषेणानुलिप्तस्य भक्तजनैः कैश्चन कृतालङ्करणस्य करणास्पदेन कैरपि धावितचरणकमलस्य ज्वलन-धीतकलधौत-कलया नीराजित-राजित-गौर-महसो मह-मोख्यमान-महिम्नः श्रीविश्वम्भरस्य भरास्पदेन प्रेमणां सरेव पादपद्मोपकण्ठे यथा-वैभवं वैभवं पुरस्कृत्याद्वैतं दैतं दूरयभिः कनक-मणि-वसनादीन्युपढौक्यन्ते। अध। सखे अयमवसरो लोमस्य । यतः
धैर्यध्वंसी परिणतिसुखद्देषण होविरोधी जेतुं शक्यो भवति नितरां हन्त केनापि लोभः । क्षीराम्भोधेर्मथनजनितं रत्नभूतस्य रत्नं
देवो विष्णः किमपि चकमे कौस्तुभच्च श्रियच्च॥ कलिः। नायं तथा इति निभाल्य । पश्य पश्य एष खल्ल ।
न भाषते नेक्षते च न टोति च किच्चन ।
खानन्दस्तिमितः किन्तु तेजसा परमेधते ।। अध। सखे इयमपि मदस्य रीतिः।
मूकीकरोत्यलममूकमहो अनन्धमन्धीकरोत्यवधिरं वधिरीकरोति । योऽयं बली सुमनसं विमनीकरोति स श्रीमदो वद न कस्य महोपहत्यै॥
For Private And Personal Use Only