________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमाजे कल्यधर्मयोरभिनयः । लाघवकारिणः कटाक्षपातमात्रेणैव परहदयादपि कामादिषद्विपक्ष-पक्षच्छिदो भगवतः क्रोधवशीकारः किच्चित्रम् । नेपथ्ये यानन्दकोलाहलः।
कलिः। श्रुतिमभिनीय सखे श्रुतमिदम् । अद्य खनु श्रीवासवासान्तरे यदयमानन्दकुढ़हल-हलहला-रावः श्रूयते तेनानुमितममितमहमहनीयं तस्यैव किमपि चेतश्चमत्कार-कारि चरितमन्मोलति। पुनर्ने पथ्ये उलूलध्वनिसहचरो विविधवादित्रध्वनिः ।
कलिः। निपुणं निभाल्य। अये सत्यमेवानुमितमस्मादृशाऽटश्यमानमिवैतत् । पश्य भूसुर-सुरस-तरुणीगण-मुख-मुखरितमङ्गलोलूनुध्वनि-सहचर-चरमपरितोष * समुच्चरज्जय-जयनिखनानुवादि-वादित्र-समूहनिर्घोष-परिपोषाविश्टङ्खल-शङ्खघण्टारवैरवैयय्यतः श्रवणावट-घटमान-सुधा-रसाऽऽसार इव कश्चन महोत्सवसमयोऽयमन्मीलति। तदिदमवश्यमेव निपुणं निभालनीयमिति तथा करोति । पुनस्तत्रैव ।
रामायादीन्यरमुपहर श्रीपते भव्यनव्यान् कुम्भानयोत्तरशतमुपासादय त्वं जवेन । श्रीकान्त त्वं प्रतिदिशबधूवर्गमन्याश्च धन्या
भूदेवस्त्रीरमरसरितो नीरमभ्यानयन्तु ॥ कलिः। सखेसम्यगालक्षि मया। यदयं श्रीवासः सहोदरानादिशति तथा मन्ये तस्यैव विश्वम्भरदेवस्य प्रकट-घटमान
* परम परितोति वा पाठः । | परितोषेति वा पाठः।
For Private And Personal Use Only