________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
अध। सखे मैवं वादी। उरुयैस्तपोभिः शमदमनियमैर्धारणाध्यानयोगै युक्ताश्चापारमेष्ठ्यं त्रिभुवन विभवे छर्दितान्नावबोधाः । कन्दपादीनमित्रानपि सहजतया दुर्जयानेव जित्वा
येन स्पृष्टा निपेतुः कथय कथमसो केन कोपो विजेयः॥ कलिः। सखे कोपो वराकस्तस्य किं करोतु। तथा हि। यः खल्नु विविध-विधर्म-नर्मा-सचिवयोः सप्रपञ्च-पच्च-महापापपापच्यमान-मानसयोः सकल-लोकोपप्लव-मात्र-मात्रयोः परमनुण्ठाकयोः कयाश्चिद्ब्राह्मणचेलयोः कुचलयोः कुकर्मकर्मठयोः सोदर्ययोः कदर्ययोः कपट-पटहाऽऽकारयोर्जगन्नाथमाधवाभिधानयोरनयोरहरहरतीव वर्धमान-मानस-मलयोः सानुग्रह-ग्रहमात्मनवाहूय पुरतः समानीतयोः किल्विष-विषलोभवद्भ्यां भवद्भ्यां यद्यदेनो व्यरचि तदखिलमेव मेऽवधानपूर्वकं ददतमिति गदितयोः कथं कथमपि विस्मयचमत्कारकारणेन क्षणं स्थगितयोरनन्तरं ददावेति निगदतोः करतो जलं गृहीत्वा सद्य एव देदीप्यमानी क्रियमाणयोरुदित्वरत्वरमाण-विपुल-पुलक कच्चुकयोरानन्द-नन्ददीक्षणसलिलयोः कृष्ण-कृष्णेति गद्गद-गदन-रुद्धकण्ठयोश्चिर-समय-समयमान-मनोनिर्मलतया चिरसमुपपन्नभक्तियोग-योगतो गतादाम-कामादिदोषयोः परमभागवतानां पदवीमारूढयोस्तादृशेनानन्दविकारेण पश्यतः भ्यतः सन्देहं सकलानेव जनांश्चित्रापितानिवाऽनिवारितमेवाऽकार्षात्। तस्य खलु सकला
For Private And Personal Use Only