________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
आचार्यरत्नहरिदासमुरारिगङ्गादासादयः सह गदाधरपण्डिताद्याः । विद्यानिधिप्रभृतयोऽपि च वासुदेवा
ऽऽचार्यादयः सह मुकुन्दमुखास्तथान्ये ।। अपि च।
श्रीवक्रेश्वरवान् नृसिंहसहितः शुक्लाम्बरेणाच्युतः श्रीदामोदरशङ्करी च जगदानन्दच्च मुख्यं दधत्। नानाभावविलासलास्यरसिकः प्रेमास्पदानाङ्गो यहाल्यावधिबान्धवः स जगतीत्राणाय भूमिं गतः॥ अध। युगराज कथमयमीश्वर इति निरणायि। कलिः । सखे सकलजनान्तःकरणाकर्षित्वं हि भगवतोऽसाधारणं लिङ्गम् । आनन्दमयत्वात् । आनन्दमयो हि जीवान् आनन्दयितुमईति । यथा प्रचरधनः परमपि धनिनं करोति । एतावत्त्वं हि परमैश्वरं लिङ्गमस्थ यहाल एव सकलजनचित्तचमत्कार-कारकः। तथाहि।
शिवशिव शिशतायामेव गाम्भीर्यधैर्यस्मृतिमतिरतिविद्यामाधुरीस्निग्धताद्याः । निखिलजनविशेषाकर्षिणो ये गुणास्तै
रिह न विदधतां के विष्णुरित्येव बुद्धिम् ॥ अध। अनैकान्तिकमिदं। प्रकृष्ट एव कश्चिज्जीवो भवतु । कलिः । मैवम्।
यद्यविभूतिमत् सत्त्वं श्रीमदूजितमेव वा।
For Private And Personal Use Only