________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमाज कल्यधर्मयोरभिनयः ।
तथा च।
जायमानः पूर्णिमायामुपरागच्छलेन यः ।
ग्राहयामास युगपद्धरेनीम जगज्जनान् ।। अध। अयमपि ते भ्रमः। यदिदं काकतालीयन्यायेनोपपनमन्यथा कल्पयसि । श्टणु भोः श्टणु।
महाप्रभावाः सुमहासहायाः क यूयमुच्चैश्विरबद्धमूलाः। काऽयं कडम्बा दिजवंशजात
स्ततोऽपि भीः कोऽयमहा भ्रमस्ते ॥ कलिः । सखे यथार्थमाकलय।
स्वयम्प्रकाशाः किल कालदेशवयोऽन्वयादौ नहि सव्यपेक्षाः। उद्यातमात्रः खलु बालसूर्यो
गाढं तमस्काण्डमपाकरोति ॥ नाप्ययमसहायः । यतः खनु खावतारात् पूर्वमेवायमवनितले प्रियपार्षदनिवहानाविभावयामास । तथा हि।
अद्वैताचार्यावा भगवदनवमं शाम्भवं धाम साक्षानित्यानन्दावधूतो मह इह महितं हन्त साङ्कर्षणं यः। श्रीकान्तश्रीपतिभ्यामपि सह विजयी श्रीलरामेण साई
कोऽपि श्रीवासनामा दिजकुलतिलको नारदीयं हि तेजः। अपि च ।
For Private And Personal Use Only