________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमा कल्यधर्म्मयेोरभिनयः 1
कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् ॥ इत्यादीनि भाविचैतन्यावतारपराणि वचनानि विरुध्येरन् । पारि । कथमेतान् न बाधते कलिः ।
स्त्र | कृष्णपक्षेऽनुदिवसं क्षयमाप्नोति यः सदा । दोषाकरी बाधतां किं स वै विष्णुपदाश्रितान् ॥ नेपथ्ये । कस्त्वं भो दोषाकरत्वेन मां जुगुप्शयन् सुधाकरमुपस्थापयसि ।
सूत्र । निपुणं निभाल्य मारिष यथाप्रस्तावमयममर्षोत्कर्ष - हृदयोदयोदयो धर्मेण प्रियसखेन सममित एवाभिवर्त्तते तदितोऽपसरावः । इति निष्कान्ती ।
( इति प्रस्तावना) |
ततः प्रविशत्यधर्मेणोपास्यमानः कलिः । कलिः । सखे अधर्मः । किं तत् ।
कलिः । कृष्णपक्षे इत्यादि पुनः पठति ।
अध । भखे युगराज दोषाकर इति भवन्तमेवाऽऽक्षिप्तवान
यमधमः । श्रः पाप कुशीलकुशीलव श्टणु रे । शौचाचार तपः क्षमाशमदमैः सार्द्धं विवेकादिभिः सामन्तैरपि येन धर्म्मनृपतिर्निम्मूलमुन्मूलितः । ये दृष्ट्वैव पुनन्ति तेऽपि सहसैवान्धीकृतास्तत्प्रिया atha मया स यस्य वशगः सोऽयं कलिर्निन्द्यते ॥ तिष्ठ रे पाप तिष्ठ ।
धर्म सत्यमेवाह चारणाचार्य्यः ।
For Private And Personal Use Only