________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमाङ्के महाप्रभुश्रीकान्ताद्यभिनयः। २३६ श्रीका। देव मया दूरादेवागतं तेन तदनभिज्ञोऽस्मि । पुरीस्वरूपौ। खगतम् । अहो अवगतं गतेऽब्दे अद्वैताचायेण यङ्गपालः सम्भाषितस्तेन स एवाक्रोशोऽद्यापि भगवतो मनसि जागर्ति।
महा। पुरीश्वरवासुदेवचरितमेव मे रोचते। पुरी। भाग्यवानेवासा यस्य परोक्षेऽपि भगवन्तः प्रशंसन्ति । नेपथ्ये कलकलः। पुरी। शाकर्ण्य । देव उपसन्ना एवामी । यदयं कोलाहलः श्रूयते।
महा। गोविन्द भगवत्प्रसादमालां गृहीत्वा उपसर्पत भवान्।
गोविन्दः। यथाऽऽज्ञापयसि । रति निष्कान्तः । प्रविश्य वाणीनाथः । प्रणम्याञ्जलिं बवा। देव महाप्रसादानादीनि भगवतः श्रीजगन्नाथस्य ।
महा। वाणीनाथ साधु समयज्ञोऽसि यदधुनाऽद्वैतादीनामागमनमाकलय्यैवं कृतवान् यावगोविन्द एति तावत् कापि समावेशय। वाणी। तथा करोति । प्रविश्य काशीमिश्रः। भगवन् श्वः खलु भगवतः स्नानमहोत्सवः । महा। आं जानामि। किन्तु भो मिश्र यथास्मिन्नब्दे आपा
For Private And Personal Use Only