________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
चैतन्यचन्द्रोदयस्य मरमपि स्नानमहोत्सवं मदीयगौडीयाः सुखेन पश्यन्ति तथा कर्त्तव्यम्।
काशी। स्वामिन् भूपतिनाऽऽदिष्टोऽस्मि अस्मिन्नन्द मदीयावरोधादयः केऽपि देवनानं न द्रक्ष्यन्ति। ते यत्र चक्रवेष्टोपरि स्थित्वा पूर्व देवस्नानं पश्यन्ति तत्रैव सर्वं गोडोया आरोहणीयाः। महा । स्वस्ति तस्म। पुनर्ने पथ्ये सङ्कीर्तनध्वनिः। पुरी। स्वामिन् चारगणेशं प्राप्ता अमो। महा। स्वरूप त्वमग्रतोऽभिगच्छ पश्चादहमपि । स्वरू। यथाऽऽज्ञापयसि। इति निष्कान्तः । पुरी। खगतम्।
आक्षेपोऽपि महानसौ प्रकटितः सम्प्रत्ययच्चादरो भूयानेव विकाश्यते भगवताऽद्वैतं प्रति स्निह्यता। सौहाईस्य स एवमेव महिमा देव स्वभावात् सतोर्बन्धूनां गुणदोषयोरपि गुणे दृष्टिर्न दोषग्रहः ।। महा। पुरीश्वर उत्तिष्ठ वयमप्यभिगच्छाम । पुरी। उत्तिष्ठन्तु गोस्वामिनः । इति पुरादभ्युपगच्छन्ति । ततः प्रविशति भगवत्प्रसादमालालम्भनलब्धद्दिगुणों टत्यानन्दनिर्भरोऽवैतः परितः कीर्तयन्तश्च अभितः शिवानन्दादयश्च । अदैतः दूरादागच्छन्तं महाप्रभुमालोक्य नृत्यन्नेव भूमौ पतति । शिवा। खतनयं प्रति सान् श्रावयित्वा । पश्य पश्य अयमयम्।
For Private And Personal Use Only