________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य
२३४
विष्कम्भकः । ततः प्रविशति शिवानन्दस्तत्स यियासवः किय
न्तोऽन्ये च ।
शिवा । तत्रैकं प्रति । अये त्वं कुतोऽसि ।
सः। महात्मन् गोवर्द्धनदासेनाहं त्वत्समीपं प्रेषितः । शिवा । श्र ज्ञातम्। रघुनाथदासे । द्देशार्थं गमिष्यति भवान् । सः। अथ किम्।
शिवा । किं तदुद्देशेन |
अन्यः । महाशय स त्वया परिचीयते ।
शिवा । श्रूयताम् ।
श्राचार्य्येी यदुनन्दनः सुमधुरः श्रीवासुदेवप्रियस्तच्छिष्यो रघुनाथ इत्यधिगुणः प्राणाधिको मादृशाम् । श्री चैतन्यक्कृपातिरेक सतत स्निग्धः स्वरूपानुगो वैराग्यस्य निधिर्न कस्य विदितो नीलाचले तिष्ठताम् ॥ अपि च । यः सर्व्वलोकैकमनेोऽभिरुच्चा
सौभाग्यभूः काचिद कृष्टपच्या । यत्रायमारोपणतुल्यकालं तत्प्रेमशाखी फलवानतुल्यम् ॥
तथाऽपि आगच्छ मयैव प्रतिपाल्य नेतव्योऽसि यावदद्वैतदेवाज्ञा न लभ्यते तावदेव विलम्बः । इति चिन्तयति ।
ततः प्रविशति गन्धर्व्वः ।
गन्धर्व्वः । अये अयमयं शिवानन्दः । तद्यावदुपसर्पमि ।
इत्युपसर्पति ।
For Private And Personal Use Only