________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३३
दशमा वैदेशिकगन्धर्वयोरभिनयः । अस्य परिकरो यत्र वर्तते तत्रायं स्थाप्यतामिति तथा याते तदा सर्वेऽस्मदीश्वरादय आह्निकमारब्धवन्तः । वैदे। अहो विचित्रैव चैतन्यदेवस्य करुणा प्रभाव ऐश्च
र्यच्च।
गन्ध । त्वं कुतोऽसि। वैदे। अहमुत्तरराढतः। गन्ध । कथमेकाकी। वैदे। नरहरिदासादिभिरहं प्रेषितः । गन्ध । किमर्थम्। वैदे। कदाऽसौ पुरुषोत्तम गन्तेति ज्ञातुम् । गन्ध । तदिहैव मदीश्वरालयनिकटे तिष्ठ यावदहं ज्ञात्वा समागच्छामि । अन्ये केचिद्दशजना भवानिव तत्र चलन्तो मदीश्वरेणैव स्थापिता मयैव सह यूयं यास्यथ इति ।
वैदे। कथं तेषु भवदीश्वरस्य तादृशानुग्रहो जातः। गन्ध । तेष्वेकः परममधुरो लोकलोचनरसायनमिव नवीनवया रमणीयरूपः । सहजावतोर्णश्रीकृष्णप्रेमरसवाह्यान्तरसरसः श्रीनाथनामा दिजकुलचन्द्रस्तमतिलोभनीयं दृष्ट्वा मदीश्वरः परमं पिप्रिये। उक्तच्च।मया रहसि श्रीकृष्णचैतन्यं भवान् दर्शयिष्यते माऽन्यसङ्गे गन्तव्यमिति । गृहतस्तदनुरोधेन मासमारभ्य दशानामेव योगक्षेमं करोति ।
वैदे। भवत्वहमिहेव स्थित्वा भवन्तं प्रतीक्षे। गन्ध। अहमपि शिवानन्दमनुसपीमि। इति उभा निष्कान्तौ ।
2G
For Private And Personal Use Only