SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य लोकाः सुखं गच्छन्ति। एवं गच्छत्म सत्सु रेमुणाजनपदे घट्टपालानामधिकारी कश्चित् गजपतेरमात्यो गजपतिमहाराजे दक्षिणां दिशमीयुषि स्वतन्त्रः सन् तत्रैवागतः। तेन दुरात्मना लजितमादेन करं वर्द्धयित्वा प्रत्येकं जनान् विगणय्य गतानामब्दानामपि तत् क्रमेणैव लेखयित्वा पुञ्जीभूतं शुल्कमादातुं शिवानन्दः काष्ठनिगडेन बद्दः । तद्दन्धने सर्व एव मदीश्वरादयः परमोदिग्ना अकृताहिका एव तस्थुः । वैदे। ततः। गन्ध । ततो रात्रेयामदये गते तेनैव पामरेण शिवानन्दा यटिधारकेण केनचिदनुचरेणाऽऽजुड़वे । स तदानों परमोदिग्न आसीत् । कदाचिदयं प्रहरतीति चैतन्यचरणं स्मृत्वा वनभेन सह तत्पुरत ईयिवान्। अनन्तरं सुप्तोत्थितं दीपिकाधारिभिर्वहुभिः परिवृतं वीक्ष्य विभयाञ्चकार। अनन्तरं अमात्येन पृष्टः। अये त्वं सपरिकरः समायातोऽसि। अनेनोक्तम्। अथ किम्। पुनः स ऊचे। त्वं कस्य लोकः। अनेनोक्तम्। श्रीकृष्णचैतन्यस्य । पुनस्तेनोक्तम्। त्वं चैतन्यस्य अहं जगन्नाथस्य जगन्नाथचैतन्ययोः को महान्। अनेनोक्तम् । मम तु कृष्णचैतन्य एव महान् इत्याकर्ण्य प्रीति सुमुखो भूत्वा सापराध इव अये मया खप्नो दृष्टः श्रीकृष्णचैतन्यो मामुक्तवान् मदीयो लोकस्वया बद्धोऽतित्वरितमेवमुच्यतामिति तदयमपराधो मे क्षन्तव्यः। तव किच्चिदपि दातव्यं नास्ति सुखेन प्रातरुत्याय सर्वैः सह गम्यतामित्युक्का दीपिकाधारिण द्वौ उक्तवान्। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy