SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमाझे वैदेशिकगन्धर्वयोरभिनयः। २३१ शिवानन्दः सापराधमिव प्रणम्य दूरे स्थितोऽवलोकयति । भगवान जगन्नाथप्रसाद-नारिकेलशस्यं खण्डशः प्रक्षिप्य ददाति कृष्णं ब्रूहीति च वदति स च एकैकं भक्षयति कृष्ण कृष्ण कृष्णेत्यपि वदति तदपूर्वमालोक्य । शिवानन्दः पुनस्तं प्रणम्य खापराध क्षमापयति स्म। पुनस्तदवधि सेोऽपरं न केनाप्यदृश्यत । मन्ये तेनैव शरीरेण रूपान्तरं लब्धा लोकान्तरं प्राप्तः। वैदे। भ्रातरद्य मे शुभा दिवसः । यदियं श्रीकृष्णचैतन्यकथा कातिथिजीता । यो देवः कुक्कुरमपि भगवन्नाम ग्राहयामास तस्य नृलोकं प्रति यत् कृपा भविष्यति तत् किमुत। तवातः पथि गच्छतामेषां वर्त्मकण्टकभूता घट्टपालाः कीदृशं व्यवहरन्ति। गन्ध । भ्रातः श्रूयताम्। प्रभावादेव देवस्य प्रत्यब्दमनुगच्छताम्। यातायातसुखं भूरि सर्वेषामेव निश्चितम्॥ तथा कचनाब्दे कष्टञ्च भवति। वैदे। कीदृशं तत् । गन्ध। कचनाब्दे सर्वेषु मदीश्वरप्रतिषु परस्महस्रेषु जनेषु चलितेषु सकलजनाभिभावकेन शिवानन्देनापि सपरिकरेण चलितम्। स एव प्रतिघट्ट मदीश्वरादिगणवज्नं यावन्तो गच्छन्ति तावतामेव घट्टदेयस्य प्रतिभवी भूत्वा स्वयमेव जनं प्रति यत्र यजगति तस्य निर्णयानुरूपं परिच्छेद्य दत्वा याति। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy