SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३० चैतन्यचन्द्रोदयस्य तदहमुपैमि। इति परिक्रामति। वैदे। उपसृत्य। भ्रातः क यासि । गन्ध। घायात इत्यादि पठति । वैदे। सहर्घमात्मगतम् । यत् श्रुतं मया तदवितथमेव । तथाऽपि पृच्छामि। प्रकाशम् । भ्रातः अपरिचितं प्रतिपाल्य स किं नयति। गन्ध । भ्रातः कुक्कुरोऽपि तेन प्रतिपाल्य नीतोऽस्ति किं पुनर्मानुषः । वैदे। भ्रातः कथय कीदृशं तत्। गन्ध । भगवतो मथुरागमनात् पूर्वमेकस्मिन्नब्दे सर्वेष परस्महस्रेषु लोकेषु चलितवत्सु कश्चित् कुक्कुरोऽपि रोपितयादृच्छिकेछः शिवानन्दनिकटे चलितः। शिवानन्दोऽपि सङ्गे सङ्गे चलन्तमालोक्य सश्रद्धमेवानुसन्धत्ते। प्रतिवसति समयेऽनुच्छिष्टमेवान्नं तस्मै प्रयच्छति । यत्र नद्यादिपारं तत्र तदर्थं पृथक् यथेष्टमातरं दत्वा नावमारोहयति । सोऽपि तदनुपदमेव प्रत्यहं चलति । एवं वर्मनस्त्रिभागपर्यन्तं गते कुत्रापि दिवसे तब्रक्ष्यमन्नं विस्मृत्य म्हत्येन न दत्तं पश्चात्तमनवलोक्य अहो अद्य शने भक्ष्यं न दत्तमित्यनुतपता स्वयमितस्ततो नामग्राहमाझ्यताऽपि न तस्य दर्शनं लब्धम्। तदवधि पुरुषोत्तमपर्यन्तमेव न दृष्टः। पश्चान्मनःकष्टतरमेवास्य जातम् । तदनु दैवगत्या पुरुषोत्तमे समुत्तीर्ण तमेव श्वानं जलधितीरोपकण्ठमेकाकिन उपविष्टस्य भगवतश्चैतन्यस्य समीपे दृष्ट्वा For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy