________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमाझे वैदेशिकगन्धर्वयोरभिनयः। २२६ जगन्नाथः शिशयिषुरपि भगवन्तं प्रतीक्षते तत्त्वरितमेव तमवलोकयन्तु। श्रीचै। एहि पुरीश्वर एहि । इति सङ्घः सह निष्क्रान्तः । इति निष्कान्ताः सर्वे ।
इति मथुरागमनो नाम नवमोऽङ्कः ॥
दशमाङ्कः। নন: মনিমুনি কাহিত্মিঃ।
वैदेशिकः । श्रुतं मया प्रत्यब्दमेव गुण्डिचासमये अद्वैताचार्यादयः सर्वे श्रीकृष्णचैतन्यदर्शनार्थं गच्छन्ति। तेषामभिभावकतया शिवानन्दनामा कश्चित्तस्यैव भगवतः पार्षदो वमनः कण्टकायमानानां घट्टपालानां घट्टदेयादिनिघ्नविघ्ननिवारक आचाण्डालमपि प्रतिपाल्य नयति तदहमपि तमनुसन्दधामि यथा तस्य सङ्ग एव गम्यते । इति कतिचित्पदानि गत्वा । अये पुरतोऽयं समीचीनो जन आलोक्यते तदयमेव प्रष्टव्यः । इत्युपसर्पति। ततः प्रविशत्यदैतसेवकः कश्चिद्गन्धर्व नामा। गन्धर्वः। अये नियुक्तोऽस्मि स्वामिनाऽढतेन । यथा
आयातः पुरुषोत्तमस्य गमने कालः शुभाऽयं वयं यामः सत्वरमेव सम्प्रति शिवानन्दस्त्वया भण्यताम् । प्रस्थानस्य दिनं विधाय लिखतु कैकत्र सर्व वयं गच्छन्तः सहसा भवेम मिलिताः पश्चात्युरोभावतः ॥
For Private And Personal Use Only