________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२५
नवमा राजसार्वभौमाघभिनयः । राजा। सार्वभौम अतिप्रेष्ठवृन्दावनोऽपि कथमसौ स्वल्पमेव कालं तत्रावतस्थे।
सार्च । जगन्नाथेन तदिरहमसहमानेन समाकृष्ट इव । अपि च। प्रियखरूपे दयितखरूपे
प्रेमस्वरूपे सहजाभिरूपे। निजानुरूपे प्रभुरेकरूपे
ततान रूपे खविलासरूपे॥ राजा। ततस्ततः। वातीहा। ततश्च वाराणस्याम्।
चन्द्रशेखर इति प्रथितस्य क्ष्मासुरस्य भवने भुवनेशः। प्राक्तनैः सुकृतराशिभिरस्य
प्रत्यपद्यत तदा स यतीन्द्रः॥ राजा। ततस्ततः। वातीचा । तदानीन्तु।
तमेत्य पश्येत्यनुरागपूर्व विश्वेश्वरो विश्वमिव न्ययुक्त। कुतोऽन्यथा तावति तुल्यकाले
तुल्यक्रियः सर्वजनो बभूव ॥ अपि च। ब्रह्मचारिगृहिभिक्षुवनस्था
याज्ञिका व्रतपराश्च तमोयुः। मत्मरैः कतिपयैर्यतिमुख्यै
2F
For Private And Personal Use Only